तत् त्वं
असि
|
|
__________________________________________________________________________________
प्रश्न १- अधोलिखित गद्यांशम् पठित्वा उत्तरत् -
महर्षेः आरुणेः पुत्रः श्वेतकेतु: आसीत् |
द्वादशवर्षीय तं पुत्रं पिता आरुणिः उवाच
- हे श्वेतकेतो ! गुरुं प्रति गच्छ अध्ययनार्थ् यत: सौम्य ! अस्मत्कुलिन:
अनधीत्य न भवति इति| स: पुत्रः आचार्यं उपेत्य यावत् चतुर्विंशति वर्षः
अभवत् तावत् सः सर्वान् वेदान् सार्थान् अधीत्य पितुः सकाशं आगच्छत् | सः च
‘सर्वश्रेष्ठ: अहम्‘ इति मन्यमान: उद्धत स्वभाव: अभवत् |
क-एक पदेन उत्तरत्-
·
श्वेतुकेतु: कस्य पुत्र: आसीत् ?
·
क: द्वादशवर्षीय: आसीत् ?
·
पितु: सकाशं क: आगच्छत् ?
·
श्वेतुकेतु: कथं अभवत्?
ख-एक वाक्येन
उत्तरत् -
·
आरुणि: स्वपुत्रं किम् उवाच ?
·
श्वेतकेतु: कस्मात् कान् अधीत्य पितुः
सकाशं आगच्छत्?
ग -निर्देश अनुसारं उत्तरत् -
·
सर्वश्रेष्ठ: अहम्‘ अत्र विशेषणम् विशेष्यम् चित्वा लिखत|
·
आगच्छत् इति क्रिया पदस्य कर्ता लिखत |
प्रश्न २ - प्रश्न निर्माणं कुरुत
·
श्वेतकेतु: गुरुं प्रति गच्छति |
·
स: चतुर्विंशति वर्षः
अभवत् |
·
सः वेदान् अपठत् |
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें