अभ्यास प्रश्न पत्र
कक्षा १०
‘अ’ - भाग:
( बहुविकल्पात्मका: प्रश्ना: )
प्रश्न- 1 रेखांकित पदानाम् आधारे संधिम् वा विच्छेदम् कुरुत |
I स: जगदीशम् नमति |
(क) जगत् + ईशम् (ख) जगद + ईशम् (ग) जग + दीशम् (घ) जग + ईश:
II एतत् + मुरारे: गृहं अस्ति |
(क) एतात्मु + अरे: (ख) इत:+मुर + अरे: (ग) एतद् +मुरारे: (घ) एतन्मुरारे:
III राम: निश्छल: अस्ति |
(क) निष् + छल: (ख) नि: + छल: (ग) निश्चय + चल (घ) नि:+चल
प्रश्न- 2 रेखांकित पदानाम् आधारे समास वा विग्रहं कुरुत |
I ये सत्यहीना: जना: ते सुखहीना: जना: |
(क) सुखेन हीन: (ख) सुख: हिन: (ग) सुखेभ्य: हिन् (घ) सुखं हिना:
II अहम् यथाशक्तिं राष्ट्रस्य सेवा करिष्यामि |
(क) शक्तिम् अनतिक्रम्य (ख) शक्ति अतिक्रम्य (ग) शक्तिम् अनुसारे (घ) यथा शक्तिं
III पिककाकौ उड्डीयेते |
(क) पिक: च काक: च समाहार: (ख) पिक: च काक: च (ग) काका: पिकवा च (घ) पिका: च काक: च
प्रश्न- 3 रेखांकित पदानाम् आधारे प्रश्न निर्माणं कुरुत |
I सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दुखी आसीत् |
(क) केशु (ख) केषु (ग) कासु (घ) कस्मिन्
II सुराधिप: ताम् अपृच्छत्
(क) क: (ख) के (ग) का: (घ) कं
III सर्वकार्येषु बुद्धि: बलवती भवति |
(क) का (ख) क: (ग) केन (घ) कुई
प्रश्न- 4 ‘क’ स्तम्भे विशेषणपदम् लिखितं ‘ख’ स्तम्भे विशेष्यपदम् लिखितं |
तयो: मेलनम् कुरुत |
‘क’ ‘ख’
दुर्बलं जननी
तुल्यवत्सला कृपा
अभ्याधिका वृषभं
प्रश्न- 5 निर्देशानुसारम् भाषिककार्यम् कुरुत -
I भवान् कुत: भयात् पलायित: ?
अस्मिन् वाक्ये 'पलायित:' इति क्रिया पदस्य कर्ता पदं किं अस्ति ?
(क) भवान् (ख) कुत: (ग) भयात् (घ) पलायित:
II मार्गे गहन-कानने सा एकं व्याघ्रं ददर्श |
अस्मिन् वाक्ये 'कानने' इति पदस्य पर्याय पदं किं अस्ति ?
(क) देवे (ख) वने (ग) मार्गे (घ) सर्वन
III वायु मंडलम् भृशं दूषितं न हि निर्मलं जलं |
अस्मिन् वाक्ये 'जलं' इति पदस्य विशेष्य पदं किं अस्ति ?
(क) न हि (ख) दूषितं (ग) भृशं (घ) निर्मलं
‘आ’ - भाग:
( वर्णनात्मका: प्रश्ना: )
प्रश्न- 6 अधोलिखितं गद्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
स्वतन्त्रभारतस्य सम्पूर्ण दायित्वम् अद्य छात्राणाम् उपरि अस्ति यतः अद्य ये विद्यार्थिनः सन्ति ते एव श्वः स्वतन्त्र भारतस्य नागरिकाः भविष्यन्ति। भारतस्य उन्नतिः पतनञ्च तेषामेव उन्नति पतनयोः निर्भरे स्तः। अतः छात्रा: स्व भावी जीवनस्य निर्माणम् अतीव सतर्कतया सावधानतया च कुर्युः, इदमेव तेभ्यः अपेक्षते । ते प्रत्येकं क्षणं स्वराष्ट्रं, स्वसमाजं, स्वधर्मं, स्वसंस्कृतिञ्च स्व नेत्रयोः पुरतः निक्षिपेयुः यत: तेषां जीवनेन राष्ट्रं किञ्चिद् बलं प्राप्तुं शक्नुयात् ।। ये छात्रा: राष्ट्रीय दृष्टिकोणात् स्वजीवनस्य निर्माणं न कुर्वन्ति, ते राष्ट्राय समाजाय वा भारभूताः एव भवन्ति। विद्यार्थिनां लक्ष्यं विद्योपार्जनमेव अस्ति। विद्योपार्जनम् कृत्वा एव ते राष्ट्रं प्रति स्वकर्तव्यस्य निर्वाहं कर्तुं शक्नुवन्ति ।
I एक पदेन उत्तरत
क - स्वतन्त्रभारतस्य सम्पूर्ण दायित्वम् अद्य केषाम् उपरि अस्ति ?
II पूर्ण वाक्येन उत्तरत
ख - विद्यार्थिनां लक्ष्यं किम् अस्ति ?
III निर्देशानुसरम् उत्तरत -
अनुच्छेदे ‘परतन्त्र’ इति पदस्य विलोम पदं किं अस्ति ?
प्रश्न- 7 भवान् पार्थः । क्षीण नेत्रदृष्टि विषये सावधानं कर्तुं स्वमित्रम् नरेशम् प्रति लिखितं पत्रं मञ्जूषायां प्रदत्तपदैः पूरयतु।
आनन्दविहारः
दिल्लीत:
तिथि :
प्रियमित्र अजित!
(I)……..
दीर्घकालान्तरम् अद्य तव पत्रं प्राप्तम्।
भवान् पत्रे अलिखत् यत् श्यामपट्टे लिखितानि (II) --------पठितुं किञ्चित् काठिन्यम् अनुभवति।
मित्रवर्य ! सर्वप्रथमं तु कस्यचित् (III)--------------समीपं गत्वा उपचारं कारयतु । नेत्राणां कृते आमलकस्य उपयोग: उचित: मन्यते। संगणकस्य अतिप्रयोगं मा कुरु।
(IV)------------------------- अपि दूरात् एव पश्यतु ।
भवान् तु जानाति एव अति सर्वत्र वर्जयेत्। मित्र ! वयं नेत्राभ्यां एव रम्यं संसारं द्रष्टुं समर्था: (v) -------------------। नेत्रं विना जीवनं (VI)----------------------------इति विचार्य एव कार्यं करणीयम् | गृहे सर्वेभ्यः यथायोग्यम् अभिवादनम्।
भवत: अभिन्नं मित्रम्
पार्थः
(अक्षराणि, भवाम:, अन्धकारमयम्, नेत्रचिकित्सकस्य, दूरदर्शनम्, सस्नेह नमः ।)
प्रश्न- 8 मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा त्रीणि वाक्यानि संस्कृतेन लिखत।
मञ्जूषा- लद्दाखस्य,करोति,सैनिका:,युद्धवाहनानि, रक्षति, युद्धं करोति, पर्वत:,
कुर्वन्ति, ट्रकयानम्,सन्ति, भारतस्य रक्षा
प्रश्न- 9 संस्कृत भाषायाम् अनुवादयत |
I तुम सब कहाँ जा रहे हो ?
II पुस्तक में कविता नहीं है |
III छात्र विद्यालय में पढ़ता है |
प्रश्न- 10 अधोलिखितं गद्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
भी वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि । सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति । सः कृच्छ्रेण भारमुद्वहति । इतरोमिव धुर- सोढुं सः न शक्नोति। एतत् भवान् पश्यति न ?" इति प्रत्यवोचत् । "भद्रे! नूनम् । सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम् ?" इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्-
I एकपदेन उत्तरत-
सुरभि: पुत्रस्य किं दृष्ट्वा रोदिति?
II पूर्णवाक्येन उत्तरत-
सः दीन इति जानन्नपि कृषकः किम् करोति ?
प्रश्न- 11 अधोलिखितं पद्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
सम्पत्तौ च विपत्तौ च महतामेकरूपता ।
उदये सविता रक्तो रक्तश्चास्तमये तथा ॥
I एकपदेन उत्तरत-
उदये क: रक्तो भवति ?
II पूर्णवाक्येन उत्तरत-
सम्पत्तौ विपत्तौ च केषां एकरूपता भवति ?
प्रश्न- 12 अधोलिखितस्य श्लोकस्य अन्वयम् मंजूषात: उचितं पदम् चित्वा लिखत |
अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम् ।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः ॥
अन्वयः-
अमन्त्रम् (i)---------------------नास्ति, (ii)----------------------मूलं नास्ति,
(iii)-----------------पुरुषः नास्ति, तत्र (iv)--------------- दुर्लभः ।
मञ्जूषा- अयोग्यः, अनौषधम्, योजकः, अक्षरम्
प्रश्न- 13 अधोलिखितवाक्यानि कथाक्रमानुसारं संयोज्य पुनः लिखत-
I तत्र राजसिंह: नाम राजपुत्र: वसति |
II अयं एक: तावत् विभज्य भुज्यताम् |
III सा गहन कानने एकं व्याघ्रं ददर्श |
IV स: जम्बुकं गले बद्ध्वा गच्छति |
V देऊल आख्यो ग्राम: अस्ति |
VI एषा व्यघ्रमारी इति मत्वा व्याघ्र: पलायित: |
VII सर्वकार्येषु सर्वदा बुद्धि बलवती सदा |
VIII बुद्धिमती पितु: गृहं प्रति चलिता |
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें